Back

गणपति अथर्व षीर्षम् (गणपत्यथर्वषीर्षोपनिषत्)

॥ गणपत्यथर्वशीर्षोपनिषत् (श्री गणेषाथर्वषीर्षम्) ॥

ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै॓स्तुष्ठु॒वाग्‍ं स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

ॐ नम॑स्ते ग॒णप॑तये । त्वमे॒व प्र॒त्यक्षं॒ तत्त्व॑मसि । त्वमे॒व के॒वलं॒ कर्ता॑‌உसि । त्वमे॒व के॒वलं॒ धर्ता॑‌உसि । त्वमे॒व के॒वलं॒ हर्ता॑‌உसि । त्वमेव सर्वं खल्विदं॑ ब्रह्मा॒सि । त्वं साक्षादात्मा॑‌உसि नि॒त्यम् ॥ 1 ॥
ऋ॑तं व॒च्मि । स॑त्यं व॒च्मि ॥ 2 ॥

अ॒व त्वं॒ माम् । अव॑ व॒क्तारम्॓ । अव॑ श्रो॒तारम्॓ । अव॑ दा॒तारम्॓ । अव॑ धा॒तारम्॓ । अवानूचानम॑व शि॒ष्यम् । अव॑ प॒श्चात्ता॓त् । अव॑ पु॒रस्ता॓त् । अवोत्त॒रात्ता॓त् । अव॑ द॒क्षिणात्ता॓त् । अव॑ चो॒र्ध्वात्ता॓त् । अवाध॒रात्ता॓त् । सर्वतो मां पाहि पाहि॑ सम॒न्तात् ॥ 3 ॥

त्वं वाङ्मय॑स्त्वं चिन्म॒यः । त्वमानन्दमय॑स्त्वं ब्रह्म॒मयः । त्वं सच्चिदानन्दा‌உद्वि॑तीयो॒‌உसि । त्वं प्र॒त्यक्षं॒ ब्रह्मा॑सि । त्वं ज्ञानमयो विज्ञान॑मयो॒‌உसि ॥ 4 ॥

सर्वं जगदिदं त्व॑त्तो जा॒यते । सर्वं जगदिदं त्व॑त्तस्ति॒ष्ठति । सर्वं जगदिदं त्वयि लय॑मेष्य॒ति । सर्वं जगदिदं त्वयि॑ प्रत्ये॒ति । त्वं भूमिरापो‌உनलो‌உनि॑लो न॒भः । त्वं चत्वारि वा॓क्पदा॒नि ॥ 5 ॥

त्वं गु॒णत्र॑याती॒तः । त्वम् अवस्थात्र॑याती॒तः । त्वं दे॒हत्र॑याती॒तः । त्वं का॒लत्र॑याती॒तः । त्वं मूलाधारस्थितो॑‌உसि नि॒त्यम् । त्वं शक्तित्र॑यात्म॒कः । त्वां योगिनो ध्याय॑न्ति नि॒त्यम् । त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म॒ भूर्भुवः॒ स्वरोम् ॥ 6 ॥

ग॒णादिं॓ पूर्व॑मुच्चा॒र्य॒ व॒र्णादीं॓ स्तदन॒न्तरम् । अनुस्वारः प॑रत॒रः । अर्धे॓न्दुल॒सितम् । तारे॑ण ऋ॒द्धम् । एतत्तव मनु॑स्वरू॒पम् । गकारः पू॓र्वरू॒पम् । अकारो मध्य॑मरू॒पम् । अनुस्वारश्चा॓न्त्यरू॒पम् । बिन्दुरुत्त॑ररू॒पम् । नादः॑ सन्धा॒नम् । सग्ंहि॑ता स॒न्धिः । सैषा गणे॑शवि॒द्या । गण॑क ऋ॒षिः । निचृद्गाय॑त्रीच्छ॒न्दः । श्री महागणपति॑र्देवता । ॐ गं ग॒णप॑तये नमः ॥ 7 ॥

एकद॒न्ताय॑ वि॒द्महे॑ वक्रतु॒ण्डाय॑ धीमहि ।
तन्नो॑ दन्तिः प्रचो॒दया॓त् ॥ 8 ॥

एकदन्॒तं च॑तुर्ह॒स्तं॒ पा॒शमं॑कुश॒धारि॑णम् । रदं॑ च॒ वर॑दं ह॒स्तै॒र्बि॒भ्राणं॑ मूष॒कध्व॑जम् । रक्तं॑ ल॒म्बोद॑रं शू॒र्प॒कर्णकं॑ रक्त॒वास॑सम् । रक्त॑ग॒न्धानु॑लिप्ता॒ङ्गं॒ र॒क्तपु॑ष्पैः सु॒पूजि॑तम् । भक्ता॑नु॒कम्पि॑नं दे॒वं॒ ज॒गत्का॑रण॒मच्यु॑तम् । आवि॑र्भू॒तं च॑ सृ॒ष्ट्या॒दौ॒ प्र॒कृते॓ः पुरु॒षात्प॑रम् । एवं॑ ध्या॒यति॑ यो नि॒त्यं॒ स॒ योगी॑ योगि॒नां व॑रः ॥ 9 ॥

नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्ते‌உस्तु लम्बोदरायैकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमूर्तये॒
नमः ॥ 10 ॥

एतदथर्वशीर्षं यो‌உधी॒ते । स ब्रह्मभूया॑य क॒ल्पते । स सर्वविघ्नै॓र्न बा॒ध्यते । स सर्वतः सुख॑मेध॒ते । स पञ्चमहापापा॓त् प्रमु॒च्यते । सा॒यम॑धीया॒नो॒ दिवसकृतं पापं॑ नाश॒यति । प्रा॒तर॑धीया॒नो॒ रात्रिकृतं पापं॑ नाश॒यति । सायं प्रातः प्र॑युञ्जा॒नो॒ पापो‌உपा॑पो भ॒वति । धर्मार्थकाममोक्षं॑ च वि॒न्दति । इदमथर्वशीर्षमशिष्याय॑ न दे॒यम् । यो यदि मो॑हाद् दा॒स्यति स पापी॑यान् भ॒वति । सहस्रावर्तनाद्यं यं काम॑मधी॒ते । तं तमने॑न सा॒धयेत् ॥ 11 ॥

अनेन गणपतिम॑भिषि॒ञ्चति । स वा॑ग्मी भ॒वति । चतुर्थ्यामन॑श्नन् ज॒पति स विद्या॑वान् भ॒वति । इत्यथर्व॑णवा॒क्यम् । ब्रह्माद्या॒चर॑णं वि॒द्यान्न बिभेति कदा॑चने॒ति ॥ 12 ॥

यो दूर्वाङ्कु॑रैर्य॒जति स वैश्रवणोप॑मो भ॒वति । यो ला॑जैर्य॒जति स यशो॑वान् भ॒वति । स मेधा॑वान् भ॒वति । यो मोदकसहस्रे॑ण य॒जति स वाञ्छितफलम॑वाप्नो॒ति । यः साज्य समि॑द्भिर्य॒जति स सर्वं लभते स स॑र्वं ल॒भते ॥ 13 ॥

अष्टौ ब्राह्मणान् सम्यग् ग्रा॑हयि॒त्वा सूर्यवर्च॑स्वी भ॒वति । सूर्यग्रहे म॑हान॒द्यां प्रतिमासन्निधौ वा ज॒प्त्वा सिद्धम॑न्त्रो भ॒वति । महाविघ्ना॓त् प्रमु॒च्यते । महादोषा॓त् प्रमु॒च्यते । महापापा॓त् प्रमु॒च्यते । महाप्रत्यवाया॓त् प्रमु॒च्यते । स सर्व॑विद्भवति स सर्व॑विद्भ॒वति । य ए॑वं वे॒द । इत्यु॑प॒निष॑त् ॥ 14 ॥

ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै॓स्तुष्ठु॒वाग्‍ं स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥